विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
|
संस्कृतविकिपीडिया
स्वतन्त्रविश्वकोशः
२००३ तमवर्षस्य डिसेम्बरमासे अस्याः आरम्भः जातः । सम्प्रति संस्कृतविकिपीडियायां १०,२०७ लेखाः सन्ति ।
सोमवासरः, जनवरी ३०, २०१७; समयः- ०७:५४ UTC
विषयसर्वस्वम् * स्वशिक्षा * लेखनसाहाय्यम्
|
|
प्रेता जयता नरः ॥
हे मानव ! अग्रे सर, विजयी भव । -सामवेदः १८६-२
|
|
|
संस्कृतम्
संस्कृतम् जगतः एकतमा अतिप्राचीना समृद्धा शास्त्रीया च भाषा वर्तते। संस्कृतं भारतस्य जगत: वा भाषास्वेकतमा प्राचीनतमा। संस्कृता वाक्, भारती, सुरभारती, अमरभारती, अमरवाणी, सुरवाणी, गीर्वाणवाणी, गीर्वाणी, देववाणी, देवभाषा, दैवीवाक् इत्यादिभिः नामभिः एतद्भाषा प्रसिद्धा। भारतीयभाषासु बाहुल्येन संस्कृतशब्दाः उपयुक्ताः। संस्कृतात् एव अधिका भारतीयभाषा उद्भूताः। तावदेव भारत-युरोपीय-भाषावर्गीयाः अनेकाः भाषाः संस्कृतप्रभावं संस्कृतशब्दप्राचुर्यं च प्रदर्शयन्ति। व्याकरणेन सुसंस्कृता भाषा जनानां संस्कारप्रदायिनी भवति। अष्टााध्याकयी इति नाम्नि महर्षिपाणिनेः विरचना जगतः सर्वासां भाषाणाम् व्याकरणग्रन्थेषु अन्यतमा, वैयाकरणानां भाषाविदां भाषाविज्ञानिनां च प्रेरणास्था्नं इवास्ति।
(अधिकवाचनाय »)
|
|
|
श्री चमू-कृष्ण-शास्त्रिणः
|
|
|
|
|
|
|
|
|
|
|
वायुः अस्माकं जीवनस्य अत्यावश्यकं तत्त्वं वर्तते । वायुं विना जीवनम् असम्भवम् अस्ति । प्रतिदिनं वयं द्विवारं त्रिवारं वा भोजनं कुर्मः । एकस्मिन् दिवसे अपि अनेकवारं वयं जलं पिबामः । किन्तु श्वसनं वयं प्रतिक्षणं कुर्मः । जीवनाय वायुः सर्वेभ्यः जीवेभ्यः आवश्यकः वर्तते । पृथिव्याः परितः वायूनाम् आवरणम् अस्ति । तत् आवरणं वायुमण्डलं कथ्यते । जीवनाय वायवः वायुमण्डलात् प्राप्यन्ते । सूर्यस्य हानिकारकाणां किरणानां प्रभावात् वायुमण्डलम् अस्मान् रक्षति । यदि वायुमण्डलं न भवेत्, तर्हि दिवसे सूर्यकिरणानां तापेन वयं ज्वलितुं शक्नुमः । अयं वायुराशिः उच्यते येन निवासयोग्यं पृथिव्याः तापमानं भवति ।
(अधिकवाचनाय »)
|
|
|
सप्तर्षयः के ?
अयं च श्लोक: -
-
- कश्यपोऽत्रिः भरद्वाजः विश्वामित्रोऽथ गौतमः ।
- जमदग्निः वसिष्ठश्च सप्तैते ॠषयः स्मृताः ॥
|
|
|
सत्येन धार्यते पृथ्वी सत्येन तपते रविः ।
सत्येन वाति वायुश्च सर्वं सत्ये प्रतिष्ठितम् ॥
-
-
-
-
-
- चाणक्यनीतिदर्पणम् ५/१९
इयं भूमिः सत्येन एव धृता अस्ति । सूर्यः सत्येन एव तपति । वायुः स॒ञ्चरति सत्यस्य आधारेण एव । जगति विद्यमानं सर्वमपि सत्ये एव प्रतिष्ठितम् अस्ति । सत्यमेव सर्वस्य आधारभूतं, शक्तिमूलं च । अतः अस्माभिः सत्यम् उपासितव्यम् ।
|
|
|
|
|
|