अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
|
संस्कृतविकिपीडिया
स्वतन्त्रविश्वकोशः
२००३ तमवर्षस्य डिसेम्बरमासे अस्याः आरम्भः जातः । सम्प्रति संस्कृतविकिपीडियायां १०,०१२ लेखाः सन्ति ।
सोमवासरः, मई २, २०१६; समयः- १७:५१ UTC
विषयसर्वस्वम् * स्वशिक्षा * लेखनसाहाय्यम्
|
|
चोदस्व महते धनाय ॥
पूजनीयायै सम्पत्त्यै प्रेर्यताम् । -ऋग्वेदः १-१०४-७
|
|
|
छान्दोग्योपनिषत्
दशसु प्रमुखोपनिषत्सु अन्यतमा अस्ति छान्दोग्योपनिषत् । इयं हयग्रीवरूपिणः भगवतः मुखात् आविर्भूता पवित्रवाक्यरूपा । सर्वासाम् उपनिषदां मुख्याभिमानिनी लक्ष्मीदेवी स्वस्य पतिं श्रीहरिम् अत्र ओमित्यक्षरमुद्गीथमुपासीत इत्येवम्प्रकारेण स्तुतवती अस्ति इति आचार्याः उपोद्घाते उल्लिखितवन्तः सन्ति ।
- हयग्रीवोद्गीतवाक्यै रमादेवी रमापतिम् ।
- ओमित्येतन्मुखैर्देवमस्तुवत् सामवेदगैः ॥ इति महासंहितायाम् । (छा उ भाष्यम् १-१-१)
(अधिकवाचनाय »)
|
|
|
प्यारिस्-नगरे आक्रमितानि षट्स्थलानि
- उग्रस्थानानामुपरि फ्रान्स्-अमेरिकादेशाभ्यां वायुदलाक्रमाणि कृतानि । सिरियादेशस्य रक्कप्रदेशोपरि फ्रान्स्-देशस्य विमानानि २० स्फोटकास्त्राणि प्रक्षिप्य दशाधिकानि उग्रस्थानानि नाशयामासुः ।
- जी-२० शृङ्गसभायाः विश्वनेतारः ऐसिस्-उग्रान् दमयितुं शपथं कृतवन्तः ।
- फ्रान्स्-देशस्य राजधानीं प्यारिस्-नगरोपरि ऐसिस्-उग्रवादिनः षट्सु स्थलेषु(चित्रे) सारणिरूपेण स्फोटकास्त्राणि गुलिकास्त्राणि च प्रक्षिप्य अनेकान् जनान्(प्रायः १३०) मारितवन्तः ।
- लण्डन्-नगरे बसवेश्वरस्मारकमूर्तेः अनावरणं प्रधानमन्त्रिणा नरेन्द्रमोदिना कृतम् ।
- तमिळनाडुराज्ये भीकरवर्षया अनेके प्रदेशाः जलेनावृत्ताः । भवनानि गृहानि च प्रभग्नानि । ३९ जना मृताः ।
|
|
|
|
|
|
|
|
|
|
|
विषरहितान्नोत्पदानार्थं साम्प्रदायिककर्षणम्
कृषिः शब्द आङ्ग्लभाषायां ‘एग्रीकल्चर्’ इति उच्यते । एग्रीकल्चर् इत्यस्य शब्दस्य उत्पत्तिः लैटिन-भाषायाः जाता । लैटिन-भाषायाम् एगर् वा एग्री शब्दः अस्ति, यस्य अर्थःमृत्तिका इति भवति । अनन्तरं कल्चर् इत्यस्य शब्दस्य अर्थः कृषिः इति । कृषिः एका प्राथमिकी क्रिया अस्ति । सस्यानि, फलानि, पुष्पाणि, पशुपालनम् इत्यादयः विषयाः कृषिकार्येण सह सम्बद्धाः अस्ति । विश्वस्य ५०% जनाः कृषिकार्येण सह संलग्नाः सन्ति ।
(अधिकवाचनाय »)
|
|
|
|
|
|
|
सुजनो न याति विकृतिं परहितनिरतो विनाशकालेऽपि ।
छेदेऽपि चन्दनतरुः सुरभयति मुखं कुठारस्य ॥
-
-
-
-
-
- सु.भा. - सज्जनप्रशंसा (४९/११०)
लोके तावत् मनुष्यस्य एषः स्वभावः यत् यदा सः स्वयं कष्टम् अनुभवति, आपद्ग्रस्तो वा भवति, तदा सः कुपितः भवेत्, दु:खितो वा भवेत् । किन्तु सत्पुरुषाणां स्वभावः न तादृशः । ते सर्वदा परोपकारे एव निरताः सन्तः स्वस्य नाशसमये अपि कमपि विकारं न प्राप्नुवन्ति । तत्कथमिति कविः एकेन उदाहरणेन दर्शयति ।
यथा चन्दनवृक्षः छेदनसमये अपि सहजगुणं सुगन्धं न जहाति, अपि च छेदनार्थम् उपयुक्तं कुठारमपि सुगन्धयुक्तं करोति, तथैव सज्जनाः नाशसमये अपि परोपकारबुद्धिं न परित्यजन्ति ।
|
|
|
|
|
|